|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.96. अध्यायः 096
Mahabharata - Karna Parva - Chapter Topics
कर्णे युधि वर्धमाने कृष्णेनार्जुनप्रोत्साहनम्॥ 1 ॥ ततोऽर्जुनेन स्वसामर्थ्यप्रकाशनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-96-0x(5060)(59670)
अथाब्रवीच्चक्रधरोऽपि पार्थं
दृष्ट्वा रथेषून्प्रतिहन्यमानान्।
अमूमुषत्पश्यत एव तेऽद्य
ह्यस्त्राणि कर्णोऽस्त्रगणैः किरीटिन्॥ 8-96-1(59671)
स पार्थ किं मुह्यसि वेत्सि चैव ता--
न्दृष्ट्वा समेतान्नदतः कुरूस्त्वम्।
कर्णं पुरस्कृत्य विदुर्हि सर्वे
तवास्त्रमस्त्रैर्विनिहन्यमानम्॥ 8-96-2(59672)
यया धृत्या तामसं जघ्निवांस्त्वं
तत्संयुगे तामसांश्चातिघोरान्।
दम्भोद्भवं चासुरमाहवे त्वं
दर्पोत्सिक्तं वीर्यवन्तं किरीटिन्।
तया धृत्या त्वं जहि कर्णमद्य
पार्थाहवे त्यक्तुमस्त्रं समर्थः॥ 8-96-3(59673)
अनेन चाशु क्षुरनेमिनाद्य
मया विसृष्टेन सुदर्शनेन।
छिन्ध्यस्य मूर्धानमरेः प्रसह्य
वज्रेण शक्रो नमुचेरिवारेः॥ 8-96-4(59674)
किरातरूपी भगवान्यया च
त्वया महात्मा परितोषितोऽभूत्।
स तां पुनर्वीर धृतिं गृहीत्वा
सहानुबन्धं जहि सूतपुत्रम्॥ 8-96-5(59675)
ततो महीं सागरमेखलां त्वं
सपत्तगा ग्रामवतीं समृद्धाम्।
प्रयच्छ राज्ञे निहतारिसङ्घां
यशश्च पार्थातुलमाप्नुहि त्वम्॥ 8-96-6(59676)
कर्णं पुरस्कृत्य नदन्तिं सर्वे
तवास्त्रमग्र्यं प्रतिहत्य वीराः।
कुरु प्रयत्नं भरतप्रवीर
द्रवन्त्यमी सृञ्जयाः सोमकाश्च।
दृष्ट्वाथ कर्णं समरे प्रहृष्टं
त्वां चापि दृष्ट्वा परिहीयमानम्॥ 8-96-7(59677)
सञ्जय उवाच। 8-96-8x(5061)
सञ्चोदितो भीमजनार्दनाभ्यां
स्मृत्वा तदात्मानमवेत्य सर्वम्।
इहात्मनश्चागमने विदित्वा
प्रयोजनं केशवमित्युवाच॥ 8-96-8(59678)
प्रादुष्करोभ्येष महास्त्रमुग्रं
शिवाय लोकस्य वधाय सौतेः।
तन्मेऽनुजानातु भवान्सुराश्च
ब्रह्मा शिवो ब्रह्मविदश्च सर्वे॥ 8-96-9(59679)
इति स्मोक्त्वा पाण्डवः सव्यसाची
नमस्कृत्वा ब्रह्मणे सोऽमितात्मा।
अनुत्तमं ब्राह्ममसह्यमस्त्रं
प्रादुश्चक्रे मनसा यद्विधेयम्॥ 8-96-10(59680)
ततो दिशश्च प्रदिशश्च सर्वाः
समावृणोत्सायकैर्भूरितेजाः।
गाण्डीवमुक्तैर्भुजगैरिवोग्रै--
र्दिवाकरांशुप्रतिमैर्ज्वलद्भिः॥ 8-96-11(59681)
सृष्टास्तु बाणा भरतर्षभेण
शतं शतं भीममुखाः सुतीक्ष्णाः।
प्राच्छादयन्कर्णरथं क्षणेन
युगान्तकालार्ककरप्रकाशाः॥ 8-96-12(59682)
वैकर्तनेनाशु तदाजिमध्ये
सहस्रशो बाणगणा विसृष्टाः।
ते चाक्षयाः पाण्डवमभ्युपेयुः
पर्जन्यसृष्टा इव वारिधाराः॥ 8-96-13(59683)
ततः स कृष्णं च किरीटिनं च
वृकोदरं चाप्रतिमप्रभावः।
त्रिभिस्त्रिभिर्भीमबलो निहत्य
ननाद घोरं महता स्वनेन॥ 8-96-14(59684)
ततः स बाणाभिहतः किरीटी
भीमं तथा प्रेक्ष्य जनार्दनं च।
अमृष्यमाणः पुनरेव पार्थः
शरान्दशाष्टौ सममुद्ववर्ष॥ 8-96-15(59685)
स केतुमेकेन शरेण विद्ध्वा
शल्यं चतुर्भिस्त्रिभिरेव कर्णम्।
ततः सुमुक्तैर्दशभिर्जघान
सेनापतिं काञ्चनवर्मनद्वम्॥ 8-96-16(59686)
स राजपुत्रो विशिरा विबाहु--
र्विवाजिसूतो विधनुर्विकेतुः।
अथो रथाग्रादपतत्प्ररुग्णः
परश्वथैः साल इवावकृत्तः॥ 8-96-17(59687)
पुनश्च कर्णं त्रिभिरष्टभिश्च
द्वाभ्यां चतुर्भिर्दशभिश्च विद्धा।
चतुश्शतं द्विरदानां निपात्य
रथाञ्जघानाष्टरथान्किरीटि।
सहस्रमश्वांश्च पुनश्च सादी--
नष्टौ सहस्राणि च पत्तिवीरान्॥ 8-96-18(59688)
दृष्ट्वा तु मुख्यावतिविध्यमानौ
वरेषुभिः शूरवरावरिघ्नौ।
कर्णं च पार्थं च नियम्य वाहा-
न्सर्वे वरिष्ठाश्च ततोऽवतस्थुः॥ 8-96-19(59689)
प्रच्छादयामास ततः पृषत्कैः
सघोषमाच्छिद्य च गाण्डिवज्याम्।
अस्मिन्क्षणे फल्गुनं सूतपुत्रः
समाचिनोत्क्षुद्रकाणां शतेन॥ 8-96-20(59690)
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै--
स्तैलप्रघौतैः खगपत्रवाजैः।
षष्ट्या बिभेदाशु च वासुदेवं
तदन्तरे प्रात्वरन्सोमकाश्च॥ 8-96-21(59691)
ततो नवज्यां सुदृढां किरीटि
स्वबाहुविक्षेपसहां प्रगृह्य।
समादधे गाण्डिवे क्षिप्रकारी
निमेषमात्रेण महाधनुष्मान्॥ 8-96-22(59692)
ज्याछेदनं ज्याविधानं च तस्य
नैवावबुध्यत्सूतपुत्रो लघुत्वात्।
पार्थस्य सङ्ख्ये द्विषतां निहन्तु--
स्तदद्भुतं तत्र बभूव राजन्॥ 8-96-23(59693)
पार्थोऽपि तां ज्यामवधाय तूर्णं
शरासनज्यामाधिरथेर्विहत्य।
सुसंरब्धः कर्णशरैः क्षताङ्गो
रणे योधांस्तावकान्प्रत्यगृह्णात्॥ 8-96-24(59694)
नैवापत्पक्षिगणोऽन्तरिक्षे
पार्थेन चास्त्रेण कृतेऽन्धकारे॥ 8-96-25(59695)
शल्यं तु पार्थो दशभिर्निमेषा--
द्भृशं तनुत्रे प्रहसन्नविध्यत्।
ततः कर्णं द्वादशभिः पृषत्कै--
र्विद्ध्वा पुनः सप्तभिरप्यविध्यत्॥ 8-96-26(59696)
स पार्थबाणासनवेगनुन्नै--
र्दृढाहतः पत्रिभिरुग्रवेगैः।
विभिन्नगात्रः क्षतजोक्षिताङ्गः
कर्णो बभौ रुद्र इवान्तकाले॥ 8-96-27(59697)
ततस्त्रिभिस्तं त्रिदशाधिपोपमं
शरैर्बिभेदाधिरथिर्धनञ्जयम्।
शरांश्च पञ्च ज्वलनानिवोरगा--
न्प्रवेशयामास जिघांसुरच्युते॥ 8-96-28(59698)
सुवर्णचित्रं पुरुषोत्तमस्य
वर्माथ भित्त्वाभ्यपतन्सुपुङ्खाः।
वेगेन गां ते विविशुश्च राज--
न्स्नात्वा कर्णाऽभिमुखाः प्रतीयुः॥ 8-96-29(59699)
तान्पञ्चभल्लैर्दशभिः सुमुक्तै--
स्त्रिधात्रिधैकैकमथोच्चकर्त।
धनञ्जयस्ते न्यपतन्पृथिव्यां
यथाऽहयस्तार्क्ष्यमुखेन कृत्ताः॥ 8-96-30(59700)
ततः प्रजज्वाल किरीटमाली
क्रोधेन कक्षं प्रदहन्निवाग्निः।
स कर्णमाकर्णविकृष्टसृष्टैः
शरैः शरीरान्तकरैर्ज्वलद्भिः।
मर्मस्वविध्यत्स चचाल दुःखा--
द्धैर्यात्तुं तस्थावतिमात्रधैर्यः॥ 8-96-31(59701)
प्रादुश्चकाराथ शरान्महात्मा
देहं विचिन्वन्निव सूतजस्य।
शरास्तु ते काञ्चनचित्रपुङ्खाः
सम्पेतुरुर्व्यां शतशो महान्तः॥ 8-96-32(59702)
ततः शरौघैः प्रदिशो दिशश्च
रविप्रभाः कर्णरथश्च राजन्।
अदृश्य आसीत्कुपिते धनञ्जये
तुषारनीहारवृतो गिरिर्यथा॥ 8-96-33(59703)
सचक्ररक्षा अपि पृष्ठगोपाः
कर्णस्य ये चापि पुरःसराश्च।
भीता द्रवन्ति स्म निहन्यमाना
महेषुभिः पार्थकरप्रणुन्नैः॥ 8-96-34(59704)
ततोऽर्जुनो वै भरतप्रवीरो
महानुभावः समरे निहन्ता।
सुयोधनेनानुमतान्विनिघ्न--
न्समुच्छ्रितान्सरथान्सारभूतान्॥ 8-96-35(59705)
गाण्डीवधन्वा द्विगुणं सहस्रं
कुरुप्रवीरानृषभः कुरूणाम्।
क्षणेन सर्वान्सरथान्ससूता--
न्निनाय राजन्क्षयमेकवीरः॥ 8-96-36(59706)
अथो पलायन्त विहाय कर्णं
तवात्मजा ये कुरवश्च शिष्टाः।
एतानवाकीर्य शरक्षतांश्च
विलप्यमानांस्तनयान्विमृद्गन्॥ 8-96-37(59707)
सर्वे प्रणेशुः कुरवो विभग्नाः
पार्थेषुभिः सम्परितप्यमानाः।
सुयोधनेनाथ पुनर्वरिष्ठाः
प्रचोदिताः कर्णरथानुयाने॥ 8-96-38(59708)
भोः क्षत्रियाः शूरतमास्तु सर्वे
क्षत्रे च धर्मे निरताः स्थ यूयम्।
न युक्तरूपं भवतां समीपा--
त्पलायनं कर्णमतिप्रहाय॥ 8-96-39(59709)
तवात्मजेनापि तथोच्यमाना
नैवावतिष्ठन्त भयाद्विवर्णाः।
क्षणेन नष्टाः प्रदिशो दिशश्च
सर्वे ततः प्रेक्ष्य दिशो विशून्याः॥ 8-96-40(59710)
भयावदीर्णः कुरुभिर्विहीनः
पार्थेषुभिः सम्परितप्यमानः।
न विव्यधे भारत तत्र कर्णः
प्रतीपमेवार्जुनमभ्यधावत्॥ ॥ 8-96-41(59711)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षण्णवतितमोऽध्यायः॥ 96 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|